|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.35. अध्यायः 035
Mahabharata - Virata Parva - Chapter Topics
सुशर्मणा युद्धे विराटस्य ग्रहणम् ॥ 1 ॥ भीमेन युधिष्ठिरचोदनया विराटस्य मोचनपूर्वकं सुशर्मणो बन्धनम् ॥ 2 ॥ युधिष्ठिरेण करुणया सुशर्मणो विमोक्षणम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-35-0x(3134)(29812)
तमसाऽभिप्लुते लोके रजसा चैव भारत।
व्यतिष्ठन्त मुहूर्तं ते व्यूढानीकाः प्रहारिणम् ॥ 1 ॥ 4-35-1(29813)
ततोऽन्धकारं प्रणुदन्नुदतिष्ठन्निशाकरः।
कुर्वाणो विमलां रात्रिं दर्शयन्क्षत्रियान्रणे ॥ 2 ॥ 4-35-2(29814)
ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत।
घोररूपं तदा तेषामवेक्ष्य तु परस्परम् ॥ 3 ॥ 4-35-3(29815)
तथैव तेषां तुमुलानि तानि क्रुद्धानि चान्योन्यमभिद्रवन्ति।
गदासिपट्टैश्च परश्वथैश्च प्रासैश्च तीक्ष्णाग्रसुधौतधारैः ॥ 4 ॥ 4-35-4(29816)
बलं तु मात्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा।
प्रमथ्य जित्वा च निपीड्य मत्स्यान्विराटमोजस्विनमभ्यधावत् ॥ 5 ॥ 4-35-5(29817)
मत्ताविव वृषौ तौ तु गजाविव मदोद्धतौ ।
सिंहाविव गजग्राहौ शक्रवृत्राविवोद्धतौ ॥ 6 ॥ 4-35-6(29818)
उभौ तुल्यबलोत्साहावुभौ तुल्यपराक्रमौ।
उभौ तुल्यास्रविक्षेपावुभौ युद्धविशारदौ ॥ 7 ॥ 4-35-7(29819)
तौ निहत्य पृथग्धुर्यानुभयोः पार्ष्णिसारथी ।
आस्तां तुल्यधनुर्ग्राहौ कृष्णकंसाविवोद्धतौ ॥ 8 ॥ 4-35-8(29820)
ततः सुशर्मा त्रैगर्तः सह भ्रात्रा सुवर्मणा।
अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ॥ 9 ॥ 4-35-9(29821)
ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ।
गदापाणी सुसंरब्धौ समभ्यद्रवतां जवात् ॥ 10 ॥ 4-35-10(29822)
सुशर्मा परवीरघ्नो बलवान्वीर्यवान्गदी।
विरथं मत्स्यराजानं जीवग्राहमथाग्रहीत् ॥ 11 ॥ 4-35-11(29823)
तमुन्मथ्य सुशर्मा तु युवतीमिव कामुकः।
स्यन्दनं स्वं समारोप्य प्रययौ भीमविक्रमः ॥ 12 ॥ 4-35-12(29824)
तस्मिन्गृहीते विरथे विराटे बलवत्तरे।
बलं सर्वं विभग्नं तन्निरुत्साहं निराशकम् ॥ 13 ॥ 4-35-13(29825)
प्राद्रवन्त भयान्मात्स्यास्त्रिगर्तैरर्दिता रणे ।
विदिक्षुः दिक्षु सर्वासु पलायन्ति च यान्ति च ॥ 14 ॥ 4-35-14(29826)
तेषु विद्रांव्यमाणेषु कुन्तीपुत्रो युधिष्ठिरः।
अभ्यभाषत धर्मात्मा भिमसेनमरिन्दमम् ॥ 15 ॥ 4-35-15(29827)
मात्स्यराजस्त्रिगर्तेन परामृष्टः सुशर्मणा।
तं मोक्षय महाबाही मा गमद्द्विषतां वशम् ॥ 16 ॥ 4-35-16(29828)
भीमसेनः महाबाहो गृहीतं तु सुशर्मणा।
त्रायस्व मोचय क्षिप्रमस्मत्प्रीतिकरं नृपम् ॥ 17 ॥ 4-35-17(29829)
उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः।
भीमसेन त्वया कार्या तस्य वातस्य निष्कृतिः ॥ 18 ॥ 4-35-18(29830)
वैशम्पायन उवाच। 4-35-19x(3135)
तं तथावादिनं तत्र भीमसेनो महाबलः।
अभ्यभाषत दुर्धर्षो रणमध्ये युधिष्ठिरम् ॥ 19 ॥ 4-35-19(29831)
अहमेनं परित्रास्ये शासनात्तव पार्थिव।
पश्येदं सुमहत्कर्म युध्यतो मम शत्रुभिः ॥ 20 ॥ 4-35-20(29832)
स्वबाहुबलमाश्रित्य परेषामसमं रणे।
एकान्तमाश्रितो राजंस्तिष्ठ त्वं भ्रातृभिः सह ॥ 21 ॥ 4-35-21(29833)
अयं वृक्षो महाशाखो गिरिमात्रो वनस्पतिः।
अहमेनं समारुज्य पोथयिष्यामि शात्रवान् ॥ 22 ॥ 4-35-22(29834)
वैशम्पायन उवाच। 4-35-23x(3136)
तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्।
अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ॥ 23 ॥ 4-35-23(29835)
भीम मा साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः ॥ 24 ॥ 4-35-24(29836)
मा त्वां वृक्षेण कर्माणि कुर्वन्तमतिमानुषम् ।
जनाः समवबुध्येरन्भीमोऽयमिति भारत ॥ 25 ॥ 4-35-25(29837)
मा ग्रहीस्त्वमिमं वृक्षं सिंहनादं च मा नद।
कर्मणा सिंहनादेन विज्ञास्यन्ति जना ध्रुवम् ॥ 26 ॥ 4-35-26(29838)
इमं वृक्षं गृहीत्वा त्वं नेमां सेनामभिद्रव ।
वृक्षं च त्वां रुजन्तं वै विज्ञास्यति जनो ध्रुवं ॥ 27 ॥ 4-35-27(29839)
अन्यदेवायुधं गृह्य प्रतिपद्यस्व मानुषम्।
चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वथम् ॥ 28 ॥ 4-35-28(29840)
यदेव मानुषं भीम भवेदन्यैरलक्षितम् ।
तदेवायुधमादाय मोचयाशु महीतिम् ॥ 29 ॥ 4-35-29(29841)
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ।
व्यायच्छतस्ते समरे मत्स्यराजं परीप्स्रतः ॥ 30 ॥ 4-35-30(29842)
वैशम्पायन उवाच। 4-35-31x(3137)
भ्रातुर्वचनमादाय भीमो वृक्षं विसृज्य च।
चापमादाय संप्राप्तो रथमास्थाय पाण्डवः ॥ 31 ॥ 4-35-31(29843)
व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः ।
तं भीमो भीमकर्माणं शुशर्माणमथाऽऽद्रवत् ॥ 32 ॥ 4-35-32(29844)
विराटमभिवीक्ष्यैनं तिष्ठितिष्ठेति चावदत् ॥ 33 ॥ 4-35-33(29845)
सुशर्मा चिन्तयामास कालान्तकयमोपमम् ।
तिष्ठतिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः ॥ 34 ॥ 4-35-34(29846)
पश्यतां सुमहत्कर्म महद्युद्धमुपस्थितम् ।
परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह ॥ 35 ॥ 4-35-35(29847)
निमेषान्तरमात्रेण भीमसेनेन ते रथाः ।
रथानां च गजानां च वाजिनां च ससादिनां ॥ 36 ॥ 4-35-36(29848)
सहस्रशतसंघाताः शूराणामुग्रधन्विनाम् ।
पातिता भीमसेनेन विराटस्य समीपतः ॥ 37 ॥ 4-35-37(29849)
पत्तयो निहतास्तेषां गदां गृह्य महात्मना ॥ 38 ॥ 4-35-38(29850)
तद्दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः।
चिन्तयामास मनसा किं शेषं हि बलस्य मे ॥ 39 ॥ 4-35-39(29851)
अपरो दृश्यते सैन्ये पुरा मग्नो महाबले।
आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत ॥ 40 ॥ 4-35-40(29852)
सुशर्मा सायकांस्तीक्ष्णान्क्षिपते च पुनःपुनः ॥ 41 ॥ 4-35-41(29853)
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन्।
दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ॥ 42 ॥ 4-35-42(29854)
तान्निवृत्तरथान्दृष्ट्वा पाण्डवास्तां महाचमूम् ।
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ॥ 43 ॥ 4-35-43(29855)
त्रिगर्ताः समभिक्रम्य अयुध्यन्त जयैषिणः।
तान्भीमसेनः संक्रुद्धः सर्वशस्त्रभृतांवरः ।
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ॥ 44 ॥ 4-35-44(29856)
सहस्रं प्राहिणीद्राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ॥ 45 ॥ 4-35-45(29857)
शतानि त्रीणि शूराणां सहदेवः प्रतापवान् ।
युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ॥ 46 ॥ 4-35-46(29858)
प्रविश्य महतीं सेनां त्रिगर्तानां महाबलः ।
क्षोभयन्सर्वभूतानि सिंहः क्षुद्रमृगानिव ॥ 47 ॥ 4-35-47(29859)
ततो युधिष्ठिरो राजा त्वरमाणो महाबलः।
अभिद्रुत्य सुशर्माणं शरैरभ्यहनद्धृशम् ॥ 48 ॥ 4-35-48(29860)
सुशर्माऽपि सुसंक्रुद्धस्त्वराणो युधिष्ठिरम् ।
अविध्यद्दशभिर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ 49 ॥ 4-35-49(29861)
ततो राजन्क्षिप्रकारी कुन्तीऽपुत्रो वृकोदरः।
समासाद्य सुशर्माणमश्वांस्तस्य न्यपातयत् ॥ 50 ॥ 4-35-50(29862)
पृष्ठगोषौ च तस्याथ हत्वा परमसायकैः।
अथास्य सारथिं क्रुद्धो रथोपस्थादपतयत् ॥ 51 ॥ 4-35-51(29863)
चक्ररक्षस्तु शूरश्च शोणाश्वो नाम नामतः।
स भयाद्विरथं दृष्ट्वा त्रैगर्तं व्याजहात्तदा ॥ 52 ॥ 4-35-52(29864)
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः।
गदामस्य परामृश्य तमेवाभ्यहनद्बली ॥ 53 ॥ 4-35-53(29865)
स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ॥ 54 ॥ 4-35-54(29866)
भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य वीर्यवान् ।
उत्प्लुत्य गत्वा वेगेन तद्रथे विनिपत्य च।
सुशर्मणः शिरोऽगुह्णात्पुनराश्वास्य युध्यतः ॥ 55 ॥ 4-35-55(29867)
अग्राद्गिरेर्विनिक्षिप्य सिंहः क्षुद्रमृगं यथा।
ऊर्ध्वमुत्प्लृत्य मार्जार आखोर्यद्वच्छिरो रुषा ॥ 56 ॥ 4-35-56(29868)
समुद्यम्य तु रोषात्तं निष्पिपेष महीतले।
यदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ॥ 57 ॥ 4-35-57(29869)
तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना ।
स मोहमगमद्राजा प्रहारवरपीडितः॥ 58 ॥ 4-35-58(29870)
तस्मिन्वीरे गृहीते तु त्रिगर्तानां महारथे।
अभज्यत बलं सर्वं त्रिगर्तानां भयातुरम् ॥ 59 ॥ 4-35-59(29871)
निवृत्य गास्ततः सर्वाः पाण्डुपुत्रा महारथाः।
अवजित्य सुशर्माणं धनं चादाय सर्वशः ॥ 60 ॥ 4-35-60(29872)
स्वबाहुबलसंपन्ना ह्रीनिषेवा यतव्रताः।
विराटस्य महात्मानः परिक्लेशविनाशनाः।
स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत ॥ 61 ॥ 4-35-61(29873)
नायं पापसमाचारो मत्तो जीवितुमर्हति।
किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी ।
गले गृहीत्वा राजानमानीय विवशं वशम् ॥ 62 ॥ 4-35-62(29874)
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः।
रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् ॥ 63 ॥ 4-35-63(29875)
अभ्येत्य रणमध्यस्थमभ्यगच्छद्युधिष्ठिरम् ।
दर्शयामास भीमस्तु सुशर्माणं नराधिपम् ॥ 64 ॥ 4-35-64(29876)
प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम् ।
तं राजा प्राहसद्दृष्ट्वा मुच्यतां वै नराधमः ॥ 65 ॥ 4-35-65(29877)
एवमुक्तोऽब्रवीद्भीमः सुशर्माणं महाबलम् ।
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥ 66 ॥ 4-35-66(29878)
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च ।
एवं ते जीवितं दद्यामेष युद्धजितो विधिः ॥ 67 ॥ 4-35-67(29879)
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः।
मुञ्चमुञ्चाधमाचारं प्रमाणं यदि ते वयम् ॥ 68 ॥ 4-35-68(29880)
दासभावं गतो ह्येष विराटस्य महीपतेः।
अदासो गच्छ मुक्तोसि मैवं कार्षीः कदाचन ॥ 69 ॥ 4-35-69(29881)
एवमुक्ते तु सव्रीडः सुशर्माऽसीदधोमुखः ।
स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान् ॥ 70 ॥ 4-35-70(29882)
विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः ।
स्वबाहुबलसंपन्ना हीनिषेवा यतव्रताः ।
संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ॥ 71 ॥ 4-35-71(29883)
॥ श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-35-2 नन्दयन्क्षत्रियानिति थo पाठः ॥ 2 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|